शेङ्कालिपुराऽभिजनेन अनन्तराम दीक्षितकविना विरचितं श्रीस्वयंप्रकाश ब्रह्मेन्द्रसरस्वतीपञ्चरत्नम्

शेङ्कालिपुराऽभिजनेन अनन्तराम दीक्षितकविना विरचितं श्रीस्वयंप्रकाश ब्रह्मेन्द्रसरस्वतीपञ्चरत्नम्

ॐ श्री सद्गुरु परमात्मने नम:
ॐ श्री गणेशाय नम:

दत्ताद्रिवासं भजेऽहं
नित्यशुद्धं विरक्तं विवस्त्रम् यतीन्द्रं
दत्ताद्रिवासं भजेऽहं

कल्पट्टुग्रामे जनित्वा
बालभावं निनायान्यदेशे महात्मा
वासन्तकृष्णापुराख्ये
बालकृष्णो यथासौ तथा कृष्ण ब्रम्हा – (दत्ताद्रिवासं भजेऽहं)

सन्यासिंभावं गतोऽथ
“ब्रह्मचर्याध्यतित्वं व्रजे” द्वेदभागं
सत्यं चकार त्रयीवित्
शंकराचार्यवर्यो यथाऽद्वैतराज: – (दत्ताद्रिवासं भजेऽहं)

नित्यं गुहायां वसन्तं
पूणिमायां स्वभक्ताननुग्रहयन्तं
श्रीमूतिदानेन भान्तं  (श्रीभूतिदानेन भान्तं )
सच्छिन्नतृष्णालतावज्जटाभि: – (दत्ताद्रिवासं भजेऽहं)

श्रीसुन्दरश्रेष्ठिभक्तं
तद्दत्तदत्ताद्रिसंपूज्यदत्तम्
आनन्दपूरेण मत्तं
सच्छिष्यसंधै: सुदांतै: परीतम् – (दत्ताद्रिवासं भजेऽहं)

दत्तोत्सवासक्तचित्त
खीयभक्तौघ हृत्तापवध्दूतवस्त्रं
श्रीचित्सभेशात्तविध्यं
मन्दहासेन सन्दर्शितस्वान सत्वम् – (दत्ताद्रिवासं भजेऽहं)

स्वयं प्रकाश ब्रह्मेन्द्र सरस्वत्याख्य सद्गुरुम् |
नमामि शंकरानन्द तुरीयानन्द शिष्यकम् ||

अनन्त राम दीक्षिताख्य कविवरेण भाषितां |
शमधनैक दत्त भक्त योगिवर्य संनुतिम् ||

अनुदिनं तु ये पटन्ति तीव्र भक्ति संयुता |
इह परत्र वाञ्चितानि ते समाप्नुयुर्ध्रुवम् ||